भारतीयप्रशासनिकसेवा (I.A.S)
भारतीयप्रशासनिकसेवा (I.A.S) (Indian Administrative Service) तिसृषु अखिलभारतीयसेवासु एषा अन्यतमा । भारतीयप्रशासनिकाधिकारिणः केन्द्रे राज्येषु च अधिकारनिर्वहणे महत्तमं पात्रं वहन्ति । ते नीतिनियामकेषु स्थानेषु कार्यं निर्वहन्ति । भारतीयसंविधानसभायाः आशयः आसीत् यत् अधिकारिगणः स्वतन्त्रतया वदेत्, भयं विना कार्यं कुर्यात् च इति । एतेषां नियुक्तिः केन्द्रसर्वकारेण क्रियते । ते केन्द्रसार्वजनिकसेवा-आयोगेन चिताः भवन्ति । परीक्षा स्तरत्रये भवति । प्राथमिकं, प्रधानं, मौखिकं च । तत्र २३ मुख्यविषयाः सन्ति । भारतीयप्रशासनिकसेवायाः प्रवेशः अतिकष्टकरः इति भावना अस्ति । चतुर्वारमेव परीक्षां स्वीकर्तुमर्हन्ति सामान्याभ्यर्थिनः । इतरनिम्नवर्गीयजनानां सप्तवारम् अवसरः दीयते । परिशिष्टजातीयाजनानां परिशिष्टवर्गस्य जनानाम् एतादृशः निर्बन्धः नास्ति । प्रवेशसमये वयः २१ वर्षाणि स्यात् । त्रिलक्षाभ्यर्थिनः प्रतिवर्षं परीक्षां स्वीकुर्वन्ति तेषु केवलं ८५० जनाः एव चिताः भवन्ति । एतेन ज्ञायते अस्याः सेवायां प्रामुख्यं तथा तदर्थं स्पर्धा च । सर्दार वल्लभबायीपटेलः अस्याः सेवायाः संरक्षकपुरुषत्वेन गणितः । तस्य मरणं यस्मिन् दिने अभवत् तद्दिने १,५०० भा.प्र.सेवायाः अधिकारिणः देहल्यां तस्य गृहस्य पुरतः प्रतिज्ञां कृतवन्तः यत् ’वयं भारतस्य सेवायां पूर्णप्रभुभक्तिम् अनवरतोत्साहं च प्रदर्शयेम’ इति । प्रायः एते अधिकारिणः मण्डलस्तरे कार्यारम्भं कुर्वन्ति । टिप्पणी
बाह्यानुबन्धाः |